09 4

अ॒पा॒नो वि॒द्वाना॒वृतः॑ । प्रति॒ प्राति॑ष्ठदध्व॒रे । आ॒र्त॒वा उ॑पगा॒तारः॑ । स॒द॒स्या॑ ऋ॒तवो॑ऽभवन् । अ॒र्ध॒मा॒साश्च॒ मासा॑श्च । च॒म॒सा॒ध्व॒र्य॒वोऽभ॑वन् । अशँ॑स॒द्ब्रह्म॑ण॒स्तेजः॑ । अ॒च्छा॒वा॒कोऽभ॑व॒द्यशः॑ । ऋ॒तमे॑षां प्रशा॒स्ताऽऽसी॑त् । यद्वि॑श्व॒सृज॒ आस॑त ॥