तप॑ आसीद्गृ॒हप॑तिः । ब्रह्म॑ ब्र॒ह्माऽभ॑वत्स्व॒यम् । स॒त्यँ ह॒ होतै॑षा॒मासी॑त् । यद्वि॑श्व॒सृज॒ आस॑त । अ॒मृत॑मेभ्य॒ उद॑गायत् । स॒हस्रं॑ परिवत्स॒रान् । भू॒तँ ह॑ प्रस्तो॒तैषा॒मासी॑त् । भ॒वि॒ष्यत्प्रति॑ चाहरत् । प्रा॒णो अ॑ध्व॒र्युर॑भवत् । इ॒दँ सर्वँ॒ सिषा॑सताम् ॥