09 2

सर्व॒न्तेज॑स्सामरू॒प्यँ ह॑ शश्वत् । सर्वँ॑ हे॒दं ब्रह्म॑णा है॒व सृ॒ष्टम् । ऋ॒ग्भ्यो जा॒तव्ँ वैश्यव्ँ॒ वर्ण॑माहुः । य॒जु॒र्वे॒दङ्क्ष॑त्रि॒यस्या॑हु॒र्योनि॑म् । सा॒म॒वे॒दो ब्रा॑ह्म॒णानां॒ प्रसू॑तिः । पूर्वे॒ पूर्वे॑भ्यो॒ वच॑ ए॒तदू॑चुः । आ॒द॒र्शम॒ग्निञ्चि॑न्वा॒नाः । पूर्वे॑ विश्व॒सृजो॒ऽमृताः॑ । श॒तव्ँ व॑र्षसह॒स्राणि॑ । दी॒क्षि॒तास्स॒त्त्रमा॑सत ॥