ऋ॒चां प्राची॑ मह॒ती दिगु॑च्यते । दक्षि॑णामाहु॒र्यजु॑षामपा॒राम् । अथ॑र्वणा॒मङ्गि॑रसां प्र॒तीची॑ । साम्ना॒मुदी॑ची मह॒ती दिगु॑च्यते । ऋ॒ग्भिः पू॑र्वा॒ह्णे दि॒वि दे॒व ई॑यते । यु॒जु॒र्वे॒दे ति॑ष्ठति॒ मध्ये॒ अह्नः॑ । सा॒म॒वे॒देना॑स्तम॒ये मही॑यते । वेदै॒रशू॑न्यस्त्रि॒भिरे॑ति॒ सूर्यः॑ । ऋ॒ग्भ्यो जा॒ताँ स॑र्व॒शो मूर्ति॑माहुः । सर्वा॒ गति॑र्याजु॒षी है॒व शश्व॑त् ॥ 49 ॥