08 3

सर्वा॒स्ताः । अ॒हो॒रा॒त्राणि॒ सर्वा॑णि । अ॒र्ध॒मा॒साँश्च॒ केव॑लान् । सर्वा॒स्ताः । सर्वा॑नृ॒तून्त्सर्वा॑न्मा॒सान् । सव्ँ॒ व॒त्स॒रञ्च॒ केव॑लम् । सर्वा॒स्ताः । सर्वं॒ भूतँ॒ सर्वं॒ भव्य॑म् । यच्चा॒तोऽधि॑ भवि॒ष्यति॑ । सर्वा॒स्ता इष्ट॑काः कृ॒त्वा । उप॑ काम॒दुघा॑ दधे । तेनर्षि॑णा॒ तेन॒ ब्रह्म॑णा । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ 48 ॥