08 2

अ॒थ॒र्वा॒ङ्गि॒रस॑श्च॒ ये । सर्वा॒स्ताः । इ॒ति॒हा॒स॒पु॒रा॒णञ्च॑ । स॒र्प॒दे॒व॒ज॒नाश्च॒ ये । सर्वा॒स्ताः । ये च॑ लो॒का ये चा॑ऽलो॒काः । अ॒न्तर्भू॒तं प्रति॑ष्ठितम् । सर्वा॒स्ताः । यच्च॒ ब्रह्म॒ यच्चा॑ऽब्र॒ह्म । अ॒न्तब्र॒ह्मन्प्रति॑ष्ठितम् ॥ 47 ॥