याश्च॒ कूप्या॒ याश्च॑ ना॒द्या॑स्समु॒द्रियाः॑ । याश्च॑ वैश॒न्तीरु॒त प्रा॑स॒चीर्याः । सर्वा॒स्ताः । ये चो॒त्तिष्ठ॑न्ति जी॒मूताः॑ । याश्च॒ वर्ष॑न्ति वृ॒ष्टयः॑ । सर्वा॒स्ताः । तप॒स्तेज॑ आका॒शम् । यच्चा॑का॒शे प्रति॑ष्ठितम् । सर्वा॒स्ताः । वा॒युव्ँ वयाँ॑सि॒ सर्वा॑णि ॥ 44 ॥