07 3

सर्वा॒स्ताः । सर्वा॒न्मरी॑ची॒न् वित॑तान् । नी॒हारो यच्च॑ शी॒यते॑ । सर्वा॒स्ताः । सर्वा॑ वि॒द्युत॒स्सर्वा॑न्त्स्तनयि॒त्नून् । ह्रा॒दुनी॒र्यच्च॑ शी॒यते॑ । सर्वा॒स्ताः । सर्वा॒स्स्रव॑न्तीस्स॒रितः॑ । सर्व॑मप्सुच॒रञ्च॒ यत् । सर्वा॒स्ताः ॥ 43 ॥