सर्वा॒ दिशो॑ दि॒क्षु । यच्चा॒न्तर्भू॒तं प्रति॑ष्ठितम् । सर्वा॒स्ता इष्ट॑काः कृ॒त्वा । उप॑ काम॒दुघा॑ दधे । तेनर्षि॑णा॒ तेन॒ ब्रह्म॑णा । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द । अ॒न्तरि॑क्षञ्च॒ केव॑लम् । यच्चा॒स्मिन्न॑न्त॒राहि॑तम् । सर्वा॒स्ताः । आ॒न्त॒रि॒क्ष्य॑श्च॒ याः प्र॒जाः ॥ 41 ॥