सर्वा॒स्ताः । याव॒न्तोऽश्मा॑नो॒ऽस्यां पृ॑थि॒व्याम् । प्र॒ति॒ष्ठासु॒ प्रति॑ष्ठिताः । सर्वा॒स्ताः । याव॑तीर्वी॒रुध॒स्सर्वाः॑ । विष्ठि॑ताः पृथि॒वीमनु॑ । सर्वा॒स्ताः । याव॑ती॒रोष॑धी॒स्सर्वाः॑ । विष्ठि॑ताः पृथि॒वीमनु॑ । सर्वा॒स्ताः ॥ 37 ॥