06 1

यच्चा॒मृतय्ँ॒यच्च॒ मर्त्य॑म् । यच्च॒ प्राणि॑ति॒ यच्च॒ न । सर्वा॒स्ता इष्ट॑काः कृ॒त्वा । उप॑ काम॒दुघा॑ दधे । तेनर्षि॑णा॒ तेन॒ ब्रह्म॑णा । तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द । सर्वा॒स्स्त्रिय॒स्सर्वा॑न्पुँ॒सः । सर्व॒न्नस्त्री॑पुमञ्च॒ यत् । सर्वा॒स्ताः । याव॑न्तः पाँ॒सवो॒ भूमेः॑ ॥ 3