05 13

याव॑दे॒व वी॒र्य॑म् । तद॑स्मिन्दधाति । ब्रह्म॑ण॒स्सायु॑ज्यँ सलो॒कता॑माप्नोति । ए॒तासा॑मे॒व दे॒वता॑नाँ॒ सायु॑ज्यम् । सा॒र्ष्टिताँ॑ समानलो॒कता॑माप्नोति । य ए॒तम॒ग्निञ्चि॑नु॒ते । य उ॑चैनमे॒वव्ँ वेद॑ । ए॒तदे॒व सा॑वि॒त्रे ब्राह्म॑णम् । अथो॑ नाचिके॒ते ॥ 34 ॥3.1