05 12

हि॒र॒ण्ये॒ष्ट॒को भ॑वति । याव॑दुत्त॒मम॑ङ्गुलिका॒ण्डय्ँय॑ज्ञप॒रुषा॒ संमि॑तम् । तेजो॒ हिर॑ण्यम् । यदि॒ हिर॑ण्य॒न्न वि॒न्देत् । शर्क॑रा अ॒क्ता उप॑दध्यात् । तेजो॑ घृ॒तम् । सते॑जसमे॒वाग्निञ्चि॑नुते । अ॒ग्निञ्चि॒त्वा सौ॑त्राम॒ण्या य॑जेत मैत्रावरु॒ण्या वा॑ । वी॒र्ये॑ण॒ वा ए॒ष व्यृ॑द्ध्यते । यो॑ऽग्निञ्चि॑नु॒ते ॥ 33 ॥3.1