तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ । उपै॑नँ सोमपी॒थो न॑मति । ए॒ते वै चतु॑र्होतारोऽनुसव॒नन्त॑र्पयित॒व्याः॑ । ये ब्रा॑ह्म॒णा ब॑हु॒विदः॑ । तेभ्यो॒ यद्दक्षि॑णा॒ न नये॑त् । दुरि॑ष्टँ स्यात् । अ॒ग्निम॑स्य वृञ्जीरन् । तेभ्यो॑ यथाश्र॒द्धन्द॑द्यात् । स्वि॑ष्टमे॒वैतत्क्रि॑यते । नास्या॒ग्निव्ँ वृ॑ञ्जते ॥ 32 ॥3.1