सर्व॒स्याप्त्यै॑ । सर्व॒स्याव॑रुध्यै । यदि॒ न वि॒न्देत॑ । म॒न्थाने॑ताव॒तो द॑द्यादोद॒नान् वा॑ । अ॒श्नु॒ते तङ्काम॑म् । यस्मै॒ कामा॑या॒ग्निश्ची॒यते॑ । प॒ष्ठौ॒हीन्त्व॒न्तर्व॑तीन्दद्यात् । सा हि सर्वा॑णि॒ वयाँ॑सि । सर्व॒स्याप्त्यै॑ । सर्व॒स्याव॑रुध्यै ॥ 30 ॥