05 08

अ॒सावा॑दि॒त्य ए॑कविँ॒शः । अ॒मुमे॒वादि॒त्यमा॑प्नोति । श॒तन्द॑दाति । श॒तायुः॒ पुरु॑षश्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । स॒हस्र॑न्ददाति । स॒हस्र॑सम्मितस्स्व॒र्गो लो॒कः । स्व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै । अ॒न्वि॒ष्टकन्दक्षि॑णा ददाति । सर्वा॑णि॒ वयाँ॑सि ॥ 29 ॥3.1