05 07

अ॒न्तरि॑क्षमु॒क्थ्ये॑न । स्व॑रतिरा॒त्रेण॑ । सर्वाल्ँ॑ लो॒कान॑ही॒नेन॑ । अथो॑ स॒त्त्रेण॑ । वरो॒ दक्षि॑णा । वरे॑णै॒व वरँ॑ स्पृणोति । आ॒त्मा हि वरः॑ । एक॑विँशति॒र्दक्षि॑णा ददाति । ए॒क॒विँ॒शो वा इ॒तस्स्व॒र्गो लो॒कः । प्र स्व॒र्गल्ँ लो॒कमा॑प्नोति ॥ 28 ॥