सदे॑वम॒ग्निञ्चि॑नुते । र॒थसं॑मितश्चेत॒व्यः॑ । वज्रो॒ वै रथः॑ । वज्रे॑णै॒व पा॒प्मानं॒ भ्रातृ॑व्यँस्तृणुते । प॒क्षस्सं॑मितश्चेत॒व्यः॑ । ए॒तावा॒न् वै रथः॑ । याव॑त्प॒क्षः । र॒थसं॑मितमे॒व चि॑नुते । इ॒ममे॒व लो॒कं प॑शुब॒न्धेना॒भिज॑यति । अथो॑ अग्निष्टो॒मेन॑ ॥ 27 ॥