05 05

पु॒रस्ता॒द्दश॑होतार॒मुद॑ञ्च॒मुप॑दधाति यावत्प॒दम् । हृद॑यय्ँ॒यजु॑षी॒ पत्न्यौ॑ च । द॒क्षि॒ण॒तः प्राञ्चं॒ चतु॑र्होतारम् । प॒श्चादुद॑ञ्चं॒ पञ्च॑होतारम् । उ॒त्त॒र॒तः प्राञ्चँ॒ षड्ढो॑तारम् । उ॒परि॑ष्टा॒त्प्राञ्चँ॑ स॒प्तहो॑तारम् । हृद॑यय्ँ॒यजूँ॑षि॒ पत्न्य॑श्च । य॒थाऽव॒का॒शं ग्रहा॑न् । य॒था॒ऽव॒का॒शं प्र॑तिग्र॒हाल्ँ लो॑कंपृ॒णाश्च॑ । सर्वा॑ हास्यै॒ता दे॒वताः॑ प्री॒ता अ॒भीष्टा॑ भवन्ति ॥ 26 ॥