05 03

ए॒तान् योऽध्यैत्यछ॑दिर्द॒र्शे याव॑त्त॒रस॑म् । स्व॑रेति । अ॒न॒प॒ब्रवस्सर्व॒मायु॑रेति । वि॒न्दते॑ प्र॒जाम् । रा॒यस्पोष॑ङ्गौप॒त्यम् । ब्र॒ह्म॒व॒र्च॒सी भ॑वति । ए॒तान् योऽध्यैति॑ । स्पृ॒णोत्या॒त्मान॑म् । प्र॒जां पि॒तॄन् । ए॒तान् वा अ॑रु॒ण औ॑पवे॒शिर्वि॒दाञ्च॑कार ॥ 24 ॥