05 02

अ॒ग्निर्होता॒ पञ्च॑होतॄणाम् । वाग्घोता॒ षड्ढो॑तॄणाम् । म॒हाह॑वि॒र्होता॑ स॒प्तहो॑तॄणाम् । ए॒तद्वै चतु॑र्होतॄणाञ्चतुर्होतृ॒त्वम् । अथो॒ पञ्च॑होतृत्वम् । सर्वा॑ हास्मै॒ दिशः॑ कल्पन्ते । य ए॒वव्ँ वेद॑ । ए॒षा वै स॑र्ववि॒द्या । ए॒तद्भे॑ष॒जम् । ए॒षा प॒ङ्क्तिस्स्व॒र्गस्य॑ लो॒कस्या॑ञ्ज॒साय॑निस्स्रु॒तिः ॥ 23 ॥