05 01

ब्रह्म॒ वै चतु॑र्होतारः । चतु॑र्होतृ॒भ्योऽधि॑ य॒ज्ञो निर्मि॑तः । नैनँ॑ श॒प्तम् । नाभिच॑रित॒माग॑च्छति । य ए॒वव्ँ वेद॑ । यो ह॒ वै चतु॑र्होतृणाञ्चतुर्होतृ॒त्वव्ँ वेद॑ । अथो॒ पञ्च॑होतृत्वम् । सर्वा॑ हास्मै॒ दिशः॑ कल्पन्ते । वा॒चस्पति॒र्होता॒ दश॑होतॄणाम् । पृ॒थि॒वी होता॒ चतु॑र्होतॄणाम् ॥ 22 ॥