ता वा ए॒ताः पञ्च॑ स्व॒र्गस्य॑ लो॒कस्य॒ द्वारः॑ । अपा॑घा॒ अनु॑वित्तयो॒ नाम॑ । तपः॑ प्रथ॒माँ र॑क्षति । श्र॒द्धा द्वि॒तीया॑म् । स॒त्यन्तृ॒तीया॑म् । मन॑श्चतु॒र्थीम् । चर॑णं पञ्च॒मीम् । अनु॑ ह॒ वै स्व॒र्गल्ँ लो॒कव्ँ वि॑न्दति । का॒म॒चारो॑ऽस्य स्व॒र्गे लो॒के भ॑वति । य ए॒ताभि॒रिष्टि॑भि॒र्यज॑ते । य उ॑ चैना ए॒वव्ँ वेद॑ । तास्व॑न्वि॒ष्टि । प॒ष्ठौ॒ही॒ व॒रान्द॑द्यात्कँ॒सञ़्च॑ । स्त्रियै॑ चाभा॒रँ समृ॑द्ध्यै ॥ 21 ॥ ॥ 4 ॥