04 6

तञ्चर॑णमब्रवीत् । प्रजा॑पते॒ चर॑णेन॒ वै श्रा॑म्यसि । अ॒हमु॒ वै चर॑णमस्मि । मान्नु य॑जस्व । अथ॑ ते स॒त्यञ्चर॑णं भविष्यति । अनु॑ स्व॒र्गल्ँ लो॒कव्ँ वे॒त्स्यसीति॑ । स ए॒तमा॑ग्ने॒यम॒ष्टाक॑पाल॒न्निर॑वपत् । चर॑णाय च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्यञ्चर॑णमभवत् । अनु॑ स्व॒र्गल्ँ लो॒कम॑विन्दत् । स॒त्यँ ह॒ वा अ॑स्य॒ चर॑णं भवति । अ॑नु स्व॒र्गल्ँ लो॒कव्ँ वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वव्ँ वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा॒ चर॑णाय॒ स्वाहा॑ । अनु॑मत्यै॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये॑ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ 20 ॥