तँ श्र॒द्धाऽब्र॑वीत् । प्रजा॑पते श्र॒द्धया॒ वै श्रा॑म्यसि । अ॒हमु॒ वै श्र॒द्धास्मि॑ । मां नु य॑जस्व । अथ॑ ते स॒त्या श्र॒द्धा भ॑विष्यति । अनु॑ स्व॒र्गं लो॒कं वे॒त्स्यसीति॑ । स ए॒तमा॑ग्ने॒यम॒ष्टाक॑पाल॒न्निर॑वपत् । श्र॒द्धायै॑ च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्या श्र॒द्धाऽभ॑वत् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । स॒त्या ह॒ वा अ॑स्य श्र॒द्धा भ॑वति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा॑ श्र॒द्धायै॒ स्वाहा॑ । अनु॑मत्यै॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये॑ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ 17 ॥