तं तपो॑ऽब्रवीत् । प्रजा॑पते॒ तप॑सा॒ वै श्रा॑म्यसि । अ॒हमु॒ वै तपो॑ऽस्मि । मां नु य॑जस्व । अथ॑ ते स॒त्यं तपो॑ भविष्यति । अनु॑ स्व॒र्गं लो॒कं वे॒त्स्यसीति॑ । स ए॒तमा॑ग्ने॒यम॒ष्टाक॑पाल॒न्निर॑वपत् । तप॑से च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्यं तपो॑ऽभवत् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । स॒त्यँ ह॒ वा अ॑स्य॒ तपो॑ भवति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा॒ तप॑से॒ स्वाहा॑ । अनु॑मत्यै॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये॑ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ 16 ॥