03 4

सं॒क॒ल्पजू॑तिं दे॒वं वि॑प॒श्चिम् । मनो॒ राजा॑नमि॒ह व॒र्धय॑न्तः । उ॒प॒ह॒वे॑ऽस्य सुम॒तौ स्या॑म । चर॑णं प॒वित्रं॒ वित॑तं पुरा॒णम् । येन॑ पू॒तस्तर॑ति दुष्कृ॒तानि॑ । तेन॑ प॒वित्रे॑ण शु॒द्धेन॑ पू॒ताः । अति॑ पा॒प्मान॒मरा॑तिं तरेम । लो॒कस्य॒ द्वार॑मर्चि॒मत्प॒वित्र॑म् । ज्योति॑ष्म॒द्भ्राज॑मानं॒ मह॑स्वत् । अ॒मृत॑स्य॒ धारा॑ बहु॒धा दोह॑मानम् । चर॑णं नो लो॒के सुधि॑तां दधातु । अ॒ग्निर्मू॒र्धा भुवः॑ । अनु॑ नो॒ऽद्यानु॑मति॒रन्विद॑नुमते॒ त्वम् । ह॒व्य॒वाहँ॒ स्वि॑ष्टम् ॥ 14 ॥