यथा॑ दे॒वैस्स॑ध॒मादं॑ मदेम । यस्य॑ प्रति॒ष्ठोर्व॑न्तरि॑क्षम् । यस्मा॑द्दे॒वा ज॑ज्ञिरे॒ भुव॑नं च॒ सर्वे॑ । तत्स॒त्यमर्च॒दुप॑ य॒ज्ञं न॒ आगा॑त् । ब्रह्माहु॑ती॒रुप॒मोद॑मानम् । मन॑सो॒ वशे॒ सर्व॑मि॒दं ब॑भूव । नान्यस्य॒ मनो॒ वश॒मन्वि॑याय । भी॒ष्मो हि दे॒वस्सह॑स॒स्सही॑यान् । स नो॑ जुषा॒ण उप॑ य॒ज्ञमागा॑त् । आकू॑तीना॒मधि॑पतिं॒ चेत॑सां च ॥ 13 ॥