सा नो॑ जुषा॒णोप॑ य॒ज्ञमागा॑त् । काम॑वत्सा॒ऽमृतं॒ दुहा॑ना । श्र॒द्धा दे॒वी प्र॑थम॒जा ऋ॒तस्य॑ । विश्व॑स्य भ॒र्त्री जग॑तः प्रति॒ष्ठा । ताँ श्र॒द्धाँ ह॒विषा॑ यजामहे । सा नो॑ लो॒कम॒मृतं॑ दधातु । ईशा॑ना दे॒वी भुव॑न॒स्याधि॑पत्नी । आगा॑त्स॒त्यँ ह॒विरि॒दं जु॑षा॒णम् । यस्मा॑द्दे॒वा ज॑ज्ञिरे॒ भुव॑नं च॒ विश्वे॑ । तस्मै॑ विधेम ह॒विषा॑ घृ॒तेन॑ ॥ 12 ॥