03 1

तप॑सा दे॒वा दे॒वता॒मग्र॑ आयन् । तप॒सर्ष॑य॒स्स्व॑रन्व॑विन्दन् । तप॑सा स॒पत्ना॒न्प्रणु॑दा॒मारा॑तीः । येने॒दं विश्वं॒ परि॑भूतं॒ यदस्ति॑ । प्र॒थ॒म॒जं दे॒वँ ह॒विषा॑ विधेम । स्व॒यं॒भु ब्रह्म॑ पर॒मं तपो॒ यत् । स ए॒व पु॒त्रस्स पि॒ता स मा॒ता । तपो॑ ह य॒क्षं प्र॑थ॒मँ संब॑भूव । श्र॒द्धया दे॑वो देव॒त्वम॑श्नुते । श्र॒द्धा प्र॑ति॒ष्ठा लो॒कस्य॑ दे॒वी ॥ 11 ॥