ता वा ए॒तास्स॒प्त स्व॒र्गस्य॑ लो॒कस्य॒ द्वारः॑ । दि॒वःश्ये॑न॒योऽनु॑वित्तयो॒ नाम॑ । आशा॑ प्रथ॒माँ र॑क्षति । कामो॑ द्वि॒तीया॑म् । ब्रह्म॑ तृ॒तीया॑म् । य॒ज्ञश्च॑तु॒र्थीम् । आपः॑ पञ्च॒मीम् । अ॒ग्निर्ब॑लि॒मान्त्ष॒ष्ठीम् । अनु॑वित्तिस्सप्त॒मीम् । अनु॑ ह॒ वै स्व॒र्गं लो॒कं वि॑न्दति । का॒म॒चारो॑ऽस्य स्व॒र्गे लो॒के भ॑वति । य ए॒ताभि॒रिष्टि॑भि॒र्यज॑ते । य उ॑ चैना ए॒वं वेद॑ । तास्व॑न्वि॒ष्टि । प॒ष्ठौ॒ही व॒रां द॑द्यात्कँ॒सं च॑ । स्त्रियै॑ चाभा॒रँ समृ॑द्ध्यै ॥ 10 ॥ ॥ 2