तम॒ग्निर्ब॑लि॒मान॑ब्रवीत् । प्रजा॑पते॒ऽग्नये॒ वै ब॑लि॒मते॒ सर्वा॑णि भू॒तानि॑ ब॒लिँ ह॑रन्ति । अ॒हमु॒ वा अ॒ग्निर्ब॑लि॒मान॑स्मि । मां नु य॑जस्व । अथ॑ ते॒ सर्वा॑णि भू॒तानि॑ ब॒लिँ ह॑रिष्यन्ति । अनु॑ स्व॒र्गं लो॒कं वे॒त्स्यसीति॑ । स ए॒तम॒ग्नये कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपत् । अ॒ग्नये॑ बलि॒मते॑ च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्मै॒ सर्वा॑णि भू॒तानि॑ ब॒लिम॑हरन् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । सर्वा॑णि ह॒ वा अ॑स्मै भू॒तानि॑ ब॒लिँ ह॑रन्ति । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहा॒ऽग्नये॑ बलि॒मते॒ स्वाहा॑ । अनु॑मत्यै॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये॑ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ 8