तमापो॑ऽब्रुवन् । प्रजा॑पते॒ऽप्सु वै सर्वे॒ कामा॑श्श्रि॒ताः । व॒यमु॒ वा आप॑स्स्मः । अ॒स्मान्नु य॑जस्व । अथ॒ त्वयि॒ सर्वे॒ कामा॑श्श्रयिष्यन्ते । अनु॑ स्व॒र्गं लो॒कं वे॒त्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपत् । अ॒द्भ्यश्च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्मि॒न्त्सर्वे॒ कामा॑ अश्रयन्त । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । सर्वे॑ ह॒ वा अ॑स्मि॒न्कामा॑श्श्रयन्ते । अनु॑ स्व॒र्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहा॒ऽद्भ्यस्स्वाहा॑ । अनु॑मत्यै॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये॑ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ 7