02 2

तमाशा॑ऽब्रवीत् । प्रजा॑पत आ॒शया॒ वै श्रा॑म्यसि । अ॒हमु॒ वा आशा॑ऽस्मि । मां नु य॑जस्व । अथ॑ ते स॒त्याऽऽशा॑ भविष्यति । अनु॑ स्व॒र्गं लो॒कं वे॒त्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपत् । आ॒शायै॑ च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्याऽऽशा॑ऽभवत् । अनु॑ स्व॒र्गं लो॒कम॑विन्दत् । स॒त्या ह॒ वा अ॒स्याऽऽशा॑ भवति । अनु॑ स्वर्गं लो॒कं वि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं वेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये कामा॑य॒ स्वाहा॒ऽऽशायै॒ स्वाहा॑ । अनु॑मत्यै॒ स्वाहा॑ प्र॒जाप॑तये॒ स्वाहा॑ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये॑ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ 3