दे॒वेभ्यो॒ वै स्व॒र्गो लो॒कस्ति॒रो॑ऽभवत् । ते प्र॒जाप॑तिमब्रुवन् । प्रजा॑पते स्व॒र्गो वै नो॑ लो॒कस्ति॒रो॑ऽभूत् । तमन्वि॒च्छेति॑ । तं य॑ज्ञक्र॒तुभि॒रन्वै॑च्छत् । तं य॑ज्ञक्र॒तुभि॒र्नान्व॑विन्दत् । तमिष्टि॑भि॒रन्वै॑च्छत् । तमिष्टि॑भि॒रन्व॑विन्दत् । तदिष्टी॑नामिष्टि॒त्वम् । एष्ट॑यो ह॒ वै नाम॑ । ता इष्ट॑य॒ इत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ 2