01 1

तुभ्यं॒ ता अ॑ङ्गिरस्तमा॒श्याम॒ तं काम॑मग्ने । आशा॑नां त्वा॒ विश्वा॒ आशाः॑ । अनु॑ नो॒ऽद्यानु॑मति॒रन्विद॑नुमते॒ त्वम् । कामो॑ भू॒तस्य॒ काम॒स्तदग्रे॑ । ब्रह्म॑ जज्ञा॒नं पि॒ता वि॒राजा॑म् । य॒ज्ञो रा॒यो॑ऽयं य॒ज्ञः । आपो॑ भ॒द्रा आदित्प॑श्यामि । तुभ्यं॑ भरन्ति॒ यो दे॒ह्यः । पूर्वं॑ देवा॒ अप॑रेण प्राणापा॒नौ । ह॒व्य॒वाहँ॒ स्वि॑ष्टम् ॥ 1