10 4

य उ॑ चैनमे॒वं वेद॑ । सव्ँ॒ व॒त्स॒रो वा अ॒ग्निर्ना॑चिके॒तः । तस्य॑ वस॒न्तश्शिरः॑ । ग्री॒ष्मो दक्षि॑णः प॒क्षः । व॒र्षाः पुच्छ॑म् । श॒रदुत्त॑रः प॒क्षः । हे॒म॒न्तो मध्य॑म् । पू॒र्व॒पक्षाश्चित॑यः । अ॒प॒र॒प॒क्षाः पुरी॑षम् । अ॒हो॒रा॒त्राणीष्ट॑काः । ए॒ष वाव सो॑ऽग्निर॑ग्नि॒मयः॑ पुनर्ण॒वः । अ॒ग्नि॒मयो॑ ह॒ वै पु॑नर्ण॒वो भू॒त्वा । स्व॒र्गं लो॒कमे॑ति । आ॒दि॒त्यस्य़॒ सायु॑ज्यम् । यो॑ऽग्निं ना॑चिके॒तं चि॑नु॒ते । य उ॑ चैनमे॒वं वेद॑ ॥ 62 ॥