ग्री॒ष्मो दक्षि॑णः प॒क्षः । व॒र्षा उत्त॑रः । श॒रत्पुच्छ॑म् । मासाः॑ कर्मका॒राः । अ॒हो॒रा॒त्रे श॑तरु॒द्रीय॑म् । प॒र्जन्यो॒ वसो॒र्धारा॑ । यथा॒ वै प॒र्जन्य॒स्सुवृ॑ष्टं वृ॒ष्ट्वा । प्र॒जाभ्य॒स्सर्वा॒न्कामा॑न्त्संपू॒रय॑ति । ए॒वमे॒व स तस्य॒ सर्वा॒न्कामा॒न्त्संपू॑रयति । यो॑ऽग्निं ना॑चिके॒तं चि॑नु॒ते ॥ 61 ॥