अथो॒ या अ॒मुष्मिल्ँ॑ लो॒के दे॒वताः॑ । तासाँ॒ सायु॑ज्यँ सलो॒कता॑माप्नोति । अथो॒ या अ॒मूरित॑रा अ॒ष्टाद॑श । य ए॒वामी उ॒रव॑श्च॒ वरी॑याँसश्च लो॒काः । ताने॒व ताभि॑र॒भिज॑यति । का॒म॒चारो॑ ह॒ वा अ॑स्यो॒रुषु॑ च॒ वरी॑यस्सु च लो॒केषु॑ भवति । या॑ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते । य उ॑ चैनमे॒वव्ँ वेद॑ । सव्ँ॒ व॒त्स॒रो वा अ॒ग्निर्ना॑चिके॒तः । तस्य॑ वस॒न्तश्शिरः॑ ॥ 60 ॥