यां प्र॑थ॒मामिष्ट॑कामुप॒दधा॑ति । इ॒मन्तया॑ लो॒कम॒भि ज॑यति । अथो॒ या अ॒स्मिल्ँ लो॒के दे॒वताः॑ । तासाँ॒ सायु॑ज्यँ सलो॒कता॑माप्नोति । यान्द्वि॒तीया॑मुप॒दधा॑ति । अ॒न्त॒रि॒क्ष॒लो॒कन्तया॒ऽभिज॑यति । अथो॒ या अ॑न्तरिक्षलो॒के दे॒वताः॑ । तासाँ॒ सायु॑ज्यँ सलो॒कता॑माप्नोति । यान्तृ॒तीया॑मुप॒दधा॑ति । अ॒मुन्तया॑ लो॒कम॒भिज॑यति ॥