09 9

विश्वास-प्रस्तुतिः

पुरी॑षम् उप॒धाय॑,
+++(‘चित्तिमचित्तिम्’ इत्य्-आदिभिश् )+++ चितिकॢ॒प्तिभि॑र् अभि॒मृश्य॑,
अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॒,
चत॑स्र ए॒ता आहु॑तीर् जुहोति -

“त्वम॑ग्ने रु॒द्र” इति॑ शतरु॒द्रीय॑स्य रू॒पम्,
“अग्ना॑विष्णू॒” इति॑ वसो॒र्धारा॑या॒ +++(रूपम्)+++,
“अन्न॑पत॒” इत्य् अ॑न्नहोमः,
“स॒प्त ते॑ अग्ने स॒मिध॑स्स॒प्त जि॒ह्वा” इति॑ विश्व॒प्रीः ॥

मूलम्

पुरी॑षमुप॒धाय॑ ।
चि॒ति॒कॢ॒प्तिभि॑रभि॒मृश्य॑ ।
अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॑ ।
चत॑स्र ए॒ता आहु॑तीर्जुहोति -
त्वम॑ग्ने रु॒द्र इति॑ शतरु॒द्रीय॑स्य रू॒पम् ।
अग्ना॑विष्णू॒ इति॑ वसो॒र्धारा॑याः ।
अन्न॑पत॒ इत्य॑न्नहोमः ।
स॒प्त ते॑ अग्ने स॒मिध॑स्स॒प्त जि॒ह्वा इति॑ विश्व॒प्रीः ॥

भट्टभास्कर-टीका

9 पुरीषमुपधायेत्यादि ॥
चात्वालात् पुरीषम् आहृत्य चिताव् उपधाय
‘चित्तिमचित्तिम्’ इत्य्-आदिभिश् चिति-कॢप्तिभिर् अभिमृश्याग्निं प्रणीयोपसमाधाय उपसमिध्य
चतुर्गृहीतेन चतस्र आहुतीर् जुहोति
‘त्वमग्ने रुद्रः’ इत्य्-आदिभिर् एतत्-प्रपाठकाम्नातैश् चतुर्भिर् अनुवाकैः ।
तत्र ‘नमस्ते रुद्र’ इति शतरुद्रीयस्य रूपं
तत्स्थानीयं “त्वमग्ने रुद्र” इति प्रथमोऽनुवाकः ।
शतं रुद्रा देवता अस्य शतरुद्रीयम् । ‘छ च’ इति छः ।

वसोर्धाराया रूपं द्वितीयोऽनुवाकः,
तृतीयोऽनुवाको ऽन्नहोमाख्यः अन्नसिद्धि-हेतुः,
चतुर्थोऽनुवाको विश्वप्रीर् नाम विश्वदेवताप्रीतिहेतुत्वात् ।
विश्वान् देवान् प्रीणातीति विश्वप्रीः ॥ इति द्वितीये काठके नवमोऽनुवाकः ॥