विश्वास-प्रस्तुतिः
अथ॒ यदी॒च्छेत् -
“भूयि॑ष्ठं मे॒ श्रद्द॑धीरन् । भूयि॑ष्ठा॒ दक्षि॑णा नयेयु॒र्” इति॑ -
दक्षि॑णासु नी॒यमा॑नासु॒
प्राच्येहि॒ प्राच्ये॒हीति॒ +++(प्रेर्यमाणा)+++,
प्राची॑ जुषा॒णा,
वेत्व् आज्य॑स्य॒ स्वाहा॑
+इति॑ स्रु॒वेणो॑प॒हत्या॑हव॒नीये॑ जुहुयात् ॥
मूलम्
अथ॒ यदी॒च्छेत् । भूयि॑ष्ठं मे॒ श्रद्द॑धीरन् । भूयि॑ष्ठा॒ दक्षि॑णा नयेयु॒रिति॑ । दक्षि॑णासु नी॒यमा॑नासु॒ प्राच्येहि॒ प्राच्ये॒हीति॒ प्राची॑ जुषा॒णा वेत्वाज्य॑स्य॒ स्वाहेति॑ स्रु॒वेणो॑प॒हत्या॑हव॒नीये॑ जुहुयात् ॥
यद्वा - क्रियासमभिव्याहारे लोट्, प्राच्येहि प्राची प्रकर्षेण प्राग्गच्छति, अथ यथासिद्ध्यनुप्रयोगश्छान्दसः ॥
विश्वास-प्रस्तुतिः
भूयि॑ष्ठम् ए॒वास्मै॒ श्रद्द॑धते॒,
भूयि॑ष्ठा॒ दक्षि॑णा नयन्ति ।
मूलम्
भूयि॑ष्ठमे॒वास्मै॒ श्रद्द॑धते । भूयि॑ष्ठा॒ दक्षि॑णा नयन्ति ।