09 7

विश्वास-प्रस्तुतिः

अथ॑ हैनम॒सावा॑दि॒त्यस्स्व॒र्गका॑मः॒ प्राची॑र् ए॒वोप॑दधे ।

मूलम्

अथ॑ हैनम॒सावा॑दि॒त्यस्स्व॒र्गका॑मः । प्राची॑रे॒वोप॑दधे ।

भट्टभास्कर-टीका

7 अथ हेति ॥ प्राचीः पश्चिमस्वयम्-आतृण्णाम् आरभ्य आहवनीयाद् उत्सर्पेद् इति केचित् ।

विश्वास-प्रस्तुतिः

ततो॒ वै सो॑ऽभि स्व॒र्गल्ँ लो॒कम॑जयत् ।
अ॒भि स्व॒र्गल्ँ लो॒कञ्ज॑यति॒,
यो॑ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते,
य उ॑ चैनमे॒वव्ँ वेद॑ ।

मूलम्

ततो॒ वै सो॑ऽभि स्व॒र्गल्ँ लो॒कम॑जयत् ।
अ॒भि स्व॒र्गल्ँ लो॒कञ्ज॑यति ।
यो॑ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते ।
य उ॑ चैनमे॒वव्ँ वेद॑ ।

विश्वास-प्रस्तुतिः

स यदी॒च्छेत् -
“ते॒ज॒स्वी य॑श॒स्वी ब्र॑ह्मवर्च॒सी स्या॒म्” इति॒
प्राङ् आ होतु॒र्धिष्ण्या॒द् उत्स॑र्पे॒त् -
“येयं प्रागा॒द् यश॑स्वती॒, सा मा॒ प्रोर्णो॑तु॒ तेज॑सा॒ यश॑सा ब्रह्मवर्च॒सेने"ति॑ ।

मूलम्

स यदी॒च्छेत् ॥
ते॒ज॒स्वी य॑श॒स्वी ब्र॑ह्मवर्च॒सी स्या॒मिति॑ ।
प्राङा होतु॒र्धिष्ण्या॒दुत्स॑र्पेत् ।
येयं प्रागा॒द्यश॑स्वती । सा मा॒ प्रोर्णो॑तु । तेज॑सा॒ यश॑सा ब्रह्मवर्च॒सेनेति॑ ।

भट्टभास्कर-टीका

मन्त्रार्थस्तु - येयं वेदिः प्रागात् प्राची एति गच्छति । छान्दसो लुङ् ।
यशस्वती अन्नवती हविषामाधारत्वात् ।
सा तादृशीं हविर्भिर् आसादितैश् छादिता
माम् अपि तेजःप्रभृतिभिः प्रोर्णोतु प्रच्छादयत्विति ॥

विश्वास-प्रस्तुतिः

ते॒ज॒स्व्ये॑व य॑श॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति ।

मूलम्

ते॒ज॒स्व्ये॑व य॑श॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति ।