विश्वास-प्रस्तुतिः
अथ॑ हैन॒म् इन्द्रो॒ ज्यैष्ठ्य॑-कामः -
ऊ॒र्ध्वा ए॒वोप॑दधे ।
मूलम्
अथ॑ हैन॒मिन्द्रो॒ ज्यैष्ठ्य॑कामः ।
ऊ॒र्ध्वा ए॒वोप॑दधे ।
भट्टभास्कर-टीका
6 अथ हेति ॥
ऊर्ध्वाः मध्याद् आरभ्य ऊर्ध्व-रीतिकाः
आ स्वयम् आतृण्णायाः प्राचीर् इत्य् अर्थः,
तस्याश् शिरस्-स्थानीयत्वाद् ऊर्ध्वा इत्य् उक्तम् ॥
विश्वास-प्रस्तुतिः
ततो॒ वै स ज्यैष्ठ्य॑म् अगच्छत् ॥
ज्यैष्ठ्य॑ङ् गच्छति॒,
यो॑ऽग्निन् ना॑चिके॒तञ् चि॑नु॒ते,
य उ॑ चैनमे॒वव्ँ वेद॑ ।
मूलम्
ततो॒ वै स ज्यैष्ठ्य॑मगच्छत् ॥ ज्यैष्ठ्य॑ङ्गच्छति । यो॑ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते । य उ॑ चैनमे॒वव्ँ वेद॑ ।