विश्वास-प्रस्तुतिः
अथ॑ हैनं प्र॒जाप॑ति॒र् ज्यैष्ठ्य॑-कामो॒ यश॑स्-कामः प्र॒जन॑न-कामः -
+++(संख्या-त्रयान्वितं)+++ त्रि॒-वृत॑म् ए॒व चि॑क्ये -
स॒प्त पु॒रस्ता॑त् ,
ति॒स्रो द॑क्षिण॒तः ,
स॒प्त प॒श्चात् ,
ति॒स्र उ॑त्तर॒तः ,
एकां॒ मध्ये॑ ।
मूलम्
अथ॑ हैनं प्र॒जाप॑ति॒र्ज्यैष्ठ्य॑कामो॒ यश॑स्कामः प्र॒जन॑नकामः ।
त्रि॒वृत॑मे॒व चि॑क्ये ॥
स॒प्त पु॒रस्ता॑त् ।
ति॒स्रो द॑क्षिण॒तः ।
स॒प्त प॒श्चात् ।
ति॒स्र उ॑त्तर॒तः ।
एकां॒ मध्ये॑ ।
भट्टभास्कर-टीका
5 अथेति ॥ ज्यैष्ठ्यं प्राधान्यं, यशः ख्यातिः, प्रजननं प्रजासमृद्विः ।
‘शीलिकामि’ इति नप्रत्ययः,
पूर्व-पद-प्रकृति-स्वरत्वं च ।
त्रिवृतं संख्या-त्रयान्वितम् ।
पुरस्तात्पश्चाच्च सप्त सप्त,
दक्षिणत उत्तरतश्च तिस्रस्तिस्रः,
एकां मध्य इति ।
विश्वास-प्रस्तुतिः
ततो॒ वै स प्र यशो॒ ज्यैष्ठ्य॑म् आप्नोत् ।
ए॒तां प्रजा॑तिं॒ +++(शक्तिं)+++ प्राजा॑यत +++(=प्राजनयत्)+++,
याम् +++(अवलम्ब्य)+++ इ॒दं प्र॒जाः प्र॒जाय॑न्ते ।
मूलम्
ततो॒ वै स प्र यशो॒ ज्यैष्ठ्य॑माप्नोत् ।
ए॒तां प्रजा॑तिं॒ प्राजा॑यत ।
यामि॒दं प्र॒जाः प्र॒जाय॑न्ते ।
भट्टभास्कर-टीका
एतां प्रजातिम् इति ।
एतां प्रजातिं प्रजनन-सामर्थ्यं प्राप्नोत्
यां प्रजा इदं प्रजायन्ते ।
विश्वास-प्रस्तुतिः
त्रि॒वृद् वै ज्यैष्ठ्य॑म् -
+++(यथा लोके-)+++ मा॒ता पि॒ता पु॒त्रः ॥
मूलम्
त्रि॒वृद्वै ज्यैष्ठ्य॑म् ।
मा॒ता पि॒ता पु॒त्रः ॥
भट्टभास्कर-टीका
त्रिवृद्वा इत्यादि ।
त्र्यवयवं ज्यैष्ठ्यं -
मात्रादयस् त्रयस् संयुक्ताः
प्रशस्यतमा लोके भवन्तीति ।
विश्वास-प्रस्तुतिः
त्रि॒वृत् प्र॒जन॑नम् -
उ॒पस्थो॒ योनि॑र् मध्य॒मा+++(→शण्डाः)+++ ।
मूलम्
त्रि॒वृत् प्र॒जन॑नम् ।
उ॒पस्थो॒ योनि॑र्मध्य॒मा ।
भट्टभास्कर-टीका
प्रजननं च त्र्यवयवम् उपस्थादित्रयस्य प्रजनन-हेतुत्वात् । योनिमध्यस्थितं गर्भस्थानं मध्यगा । केचिदाहुः - उपस्थः पुमान्, योनिः स्त्री, मध्यमा गतिः नपुंसकमिति, सर्वप्रजननावृत्त्यभावादसमीचीनम् ।
विश्वास-प्रस्तुतिः
प्र यशो॒ ज्यैष्ठ्य॑म् आप्नोति,
ए॒तां प्रजा॑तिं॒ प्रजा॑यते +++(=प्रजनयति)+++ -
याम् +++(अवलम्ब्य)+++ इ॒दं प्र॒जाः प्र॒जाय॑न्ते,
यो॑ऽग्निन् ना॑चिके॒तञ् चि॑नु॒ते,
य उ॑ चैनम् ए॒वव्ँ वेद॑ ।
मूलम्
प्र यशो॒ ज्यैष्ठ्य॑म् आप्नोति ।
ए॒तां प्रजा॑तिं॒ प्रजा॑यते-
याम् इ॒दं प्र॒जाः प्र॒जाय॑न्ते ।
यो॑ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते ।
य उ॑ चैनमे॒वव्ँ वेद॑ ।
भट्टभास्कर-टीका
प्रयश इत्यादि फलस्तुतिः ॥