विश्वास-प्रस्तुतिः
अथ॑ हैनङ्गोब॒लो वार्ष्णः॑ प॒शु-का॑मः ।
पाङ्क्त॑म् ए॒व चि॑क्ये -
पञ्च॑ पु॒रस्ता॑त्,
पञ्च॑ दक्षिण॒तः,
पञ्च॑ प॒श्चात्,
पञ् चो॑त्तर॒त,
एकां॒ मध्ये॑ ।
मूलम्
अथ॑ हैनङ्गोब॒लो वार्ष्णः॑ प॒शु-का॑मः ।
पाङ्क्त॑म् ए॒व चि॑क्ये -
पञ्च॑ पु॒रस्ता॑त्,
पञ्च॑ दक्षिण॒तः,
पञ्च॑ प॒श्चात्,
पञ् चो॑त्तर॒तः,
एकां॒ मध्ये॑ ।
भट्टभास्कर-टीका
4 अथ हेति ॥ गोवलो नाम वृष्णेरपत्यं पाङ्क्तं चिक्ये चितवान् चतसृषु दिक्षु पक्ष पञ्च, एकां मध्ये । एवं पञ्चत्वान्वयात् पाङ्कत्वम् ।
विश्वास-प्रस्तुतिः
ततो॒ वै स स॒हस्रं॑ प॒शून् प्राप्नो॑त् ।
प्र स॒हस्रं॑ प॒शून् आ॑प्नोति॒,
यो॑ऽग्निन् ना॑चिके॒तञ् चि॑नु॒ते,
य उ॑ चैनम् ए॒वव्ँ वेद॑ ।
मूलम्
ततो॒ वै स स॒हस्रं॑ प॒शून् प्राप्नो॑त् ।
प्र स॒हस्रं॑ प॒शून् आ॑प्नोति ।
यो॑ऽग्निन् ना॑चिके॒तञ् चि॑नु॒ते ।
य उ॑ चैनमे॒वव्ँ वेद॑ ।
भट्टभास्कर-टीका
पाङ्क्तस्य चेता वेदिता च सहस्रं पशून् प्राप्नोति ॥