09 3

विश्वास-प्रस्तुतिः

अथ॑ हैनव्ँ वा॒युर् ऋद्धि॑कामो
यथान्यु॒प्तम्+++(=यथापातम्)+++ ए॒वोप॑दधे +++(चिताव् इष्टिकाः)+++ ।
ततो॒ वै स ए॒ताम् ऋद्धि॑मार्ध्नोत्
याम् इ॒दव्ँ वा॒युर् ऋ॒द्धः ।

मूलम्

अथ॑ हैनव्ँ वा॒युर् ऋद्धि॑कामः ॥
य॒था॒न्यु॒प्तम् ए॒वोप॑दधे ।
ततो॒ वै स ए॒तामृद्धि॑मार्ध्नोत् ।
यामि॒दव्ँ वा॒युर्ऋ॒द्धः ।

भट्टभास्कर-टीका

3 अथ हैनमिति ॥
यथान्युप्तं यथा-निपतितेष्टकम्
अञ्जलिना गृहीत्वा वेद्यां चेतिता इष्टका
यथा पतितास् तथैवोपहितवान् ।

ततो वायुर् एताम् ऋद्धिम् आर्ध्नोत्। याम् ऋद्धिम् ऋद्धो वायुर् इदानीम् अस्माभिर् गृह्यते । इदम् इति क्रिया-विशेषणम् ।

विश्वास-प्रस्तुतिः

ए॒ताम् ऋद्धि॑म् ऋध्नोति -
याम् इ॒दव्ँ वा॒युर् ऋ॒द्धः,
यो॑ऽग्निन् ना॑चिके॒तञ् चि॑नु॒ते,
य उ॑चैनम् ए॒वव्ँ वेद॑ ।

मूलम्

ए॒तामृद्धि॑मृध्नोति ।
यामि॒दव्ँ वा॒युर्ऋ॒द्धः ।
यो॑ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते ।
य उ॑चैनमे॒वव्ँ वेद॑ ।

भट्टभास्कर-टीका

एताम् इत्य्-आदि फल-स्तुतिः ॥