09 2

विश्वास-प्रस्तुतिः

अथ॑ हैनं पु॒रर्ष॑य उत्तरवे॒द्याम् ए॒व स॒त्रिय॑म् +++(नाचिकेताग्निम्)+++ अचिन्वत ।
ततो॒ वै तेऽवि॑न्दन्त प्र॒जाम् ।
अ॒भि स्व॒र्गल्ँ लो॒कम॑जयन् ।

मूलम्

अथ॑ हैनं पु॒रर्ष॑यः । उ॒त्तर॒वे॒द्यामे॒व स॒त्रिय॑मचिन्वत ।
ततो॒ वै तेऽवि॑न्दन्त प्र॒जाम् ।
अ॒भि स्व॒र्गल्ँ लो॒कम॑जयन् ।

भट्टभास्कर-टीका

2 अथ हैनमित्यादि ॥ सत्रीयं सत्रे भवम् । गतमन्यत् ॥

विश्वास-प्रस्तुतिः

वि॒न्दत॑ ए॒व प्र॒जाम्, अ॒भि स्व॒र्गल्ँ लो॒कञ्ज॑यति,
यो॑ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते ।
य उ॑ चैनम् ए॒वव्ँ वेद॑ ।

मूलम्

वि॒न्दत॑ ए॒व प्र॒जाम् ।
अ॒भि स्व॒र्गल्ँ लो॒कञ्ज॑यति । यो॑ऽग्निन्ना॑चिके॒तञ्चि॑नु॒ते । य उ॑ चैनमे॒वव्ँ वेद॑ ।