09 1

विश्वास-प्रस्तुतिः

तँ है॒तमेके॑ पशुब॒न्ध ए॒वोत्त॑रवे॒द्याञ् चि॑न्वते -
+++(सावित्रवद् उत्तर-वेदि-देशे चितत्वात्)+++ “उ॒त्त॒र॒वे॒दि-स॑म्मित ए॒षो॑ ऽग्निर्” इति॒ वद॑न्तः ।

मूलम्

तँ है॒तमेके॑ पशुब॒न्ध ए॒वोत्त॑रवे॒द्याञ्चि॑न्वते ।
उ॒त्त॒र॒वे॒दिस॑म्मित ए॒षो॑ऽग्निरिति॒ वद॑न्तः ।

भट्टभास्कर-टीका

1 तँ हैतमित्यादि ॥ तमेतं नाचिकेतमग्निं केचित् पशुबन्ध एवोत्तरवेद्यां चिन्वते
उत्तरवेदि-संमित उत्तरवेदि-स्थानीय एषो ऽग्निः
सावित्रवद् उत्तर-वेदि-देशे चितत्वात् । उत्तरवेदिमतां प्रथमः पशुबन्धः, तस्मात्तत्रैव चेतव्यो नान्यत्रेति वदन्तः पशुबन्ध एव चिन्वते ।

विश्वास-प्रस्तुतिः

तन्न तथा॑ कु॒र्यात् ।
ए॒तम् अ॒ग्निङ् +++(भूयिष्ठाहुति-)+++कामे॑न॒ व्य॑र्द्धयेत्+++(=वियोजयेत्)+++ ।
स ए॑न॒ङ् कामे॑न॒ व्यृ॑द्धः॒, +++(यजमानम् अपि)+++ कामे॑न॒ व्य॑र्द्धयेत् ।

मूलम्

तन्न तथा॑ कु॒र्यात् ।
ए॒तम् अ॒ग्निङ्कामे॑न॒ व्य॑र्द्धयेत् ।
स ए॑न॒ङ्कामे॑न॒ व्यृ॑द्धः । कामे॑न॒ व्य॑र्द्धयेत् ।

भट्टभास्कर-टीका

तत् तथा न कुर्यात्,
तथा ऽकुर्वन्न्
एतम् अग्निं हि कामेन भूयिष्ठाहुतिलाभाभिलाषेण व्यर्धयेत् वियोजयेत्,
ततोऽसौ वृद्धिकामो यजमानम् अपि तदीयेन कामेन व्यर्धयेत् ।

विश्वास-प्रस्तुतिः

सौ॒म्ये वावैन॑म् अध्व॒रे चि॑न्वी॒त ।
यत्र॑ वा॒ भूयि॑ष्ठा॒ आहु॑तयो हू॒येर॑न् ।

मूलम्

सौ॒म्ये वावैन॑मध्व॒रे चि॑न्वी॒त ।
यत्र॑ वा॒ भूयि॑ष्ठा॒ आहु॑तयो हू॒येर॑न् ।

भट्टभास्कर-टीका

तस्मात्सौम्येऽध्वरे चेतव्यः । यत्र वा चातुर्मास्यादौ भूयिष्ठा बहुतरा आहुतयो हूयेरन् तत्र चेतव्यः ।

विश्वास-प्रस्तुतिः

ए॒तम् अ॒ग्निङ् कामे॑न॒ सम॑र्द्धयति ।
स ए॑न॒ङ् कामे॑न॒ समृ॑द्धः॒ कामे॑न॒ सम॑र्द्धयति ।

मूलम्

ए॒तम॒ग्निङ्कामे॑न॒ सम॑र्द्धयति । स ए॑न॒ङ् कामे॑न॒ समृ॑द्धः ॥ कामे॑न॒ सम॑र्द्धयति ।

भट्टभास्कर-टीका

एतमग्निमित्यादि । गतम् ॥