08 8

विश्वास-प्रस्तुतिः

ए॒तद् +++(हिरण्यमाहात्म्यं)+++ +ध॑स्म॒ वै तद्+++(=तस्माद्)+++ वि॒द्वाँसो॑ वाजश्रव॒सा गोत॑माः -
अप्य् अ॑नूदे॒श्या॑न्+++(=एकोद्दिष्ट-देव-निवेदितादि)+++ दक्षि॑णां॒ प्रति॑गृह्णन्ति -
“+++(शुद्धाशुद्धेन)+++ उ॒भये॑न व॒यन् द॑क्षिष्यामह ए॒व दक्षि॑णां प्रति॒गृह्ये"ति॑ ।
ते॑ऽदक्षन्त॒ दक्षि॑णां प्रति॒गृह्य॑ ।

मूलम्

ए॒तद्ध॑स्म॒ वै तद्वि॒द्वाँसो॑ वाजश्रव॒सा गोत॑माः । अप्य॑नूदे॒श्या॑न्दक्षि॑णां॒ प्रति॑गृह्णन्ति । उ॒भये॑न व॒यन्द॑क्षिष्यामह ए॒व दक्षि॑णां प्रति॒गृह्येति॑ । ते॑ऽदक्षन्त॒ दक्षि॑णां प्रति॒गृह्य॑ ।

भट्टभास्कर-टीका

4 एतद्ध स्मेत्यादि ॥
तद् एतद् एवं हिरण्य-माहात्म्यं विद्वांसो वाजश्रवसाः वाजश्रवसः पुत्राः, गोतमाः गौतमगोत्रजाः । ‘अत्रिभृगुकुत्स’ इति बहुषु लुक् ।

ते तत्रभवन्तः अनूदेश्यां अशुद्धाम् एकोद्दिष्टादि-लक्षणाम् अपि दक्षिणां प्रतिगृह्णन्ति स्म ।
देवतादिभ्यो निवेदितम् अनूदेश्यमिति केचित् । छान्दसमुपसर्गस्य दीर्घत्वम् ।
केनाभिप्रायेण ते प्रतिगृह्णन्ति स्मेत्याह -
उभयेनापि प्रकारेण
शुद्धाशुद्ध-द्रव्य-प्रतिग्रहण-परेणापि वयं दक्षिणामाहात्म्य-विदो
दक्षिणां प्रतिगृह्य
दक्षिष्यामह एव वर्धिष्यामह एवेति मन्यमाना अनूदेश्यामपि प्रतिगृह्णन्ति स्म ।
ते तादृशीम् अपि दक्षिणां प्रतिगृह्य अदक्षन्त अवर्धन्त ।

विश्वास-प्रस्तुतिः

दक्ष॑ते ह॒ वै दक्षि॑णां प्रति॒गृह्य॒, य ए॒वव्ँ वेद॑ ।
+++(सा दक्षिणा)+++ प्र हा॒न्यं+++(→अविद्वांसं)+++ व्ली॑नाति+++(←व्ली विशरणे)+++ ॥ 49 ॥

मूलम्

दक्ष॑ते ह॒ वै दक्षि॑णां प्रति॒गृह्य॑ । य ए॒वव्ँ वेद॑ । प्र हा॒न्यं व्ली॑नाति ॥ 49 ॥

भट्टभास्कर-टीका

तस्माद् अन्यो ऽप्य् एवंविद्वान् अनूदेश्याम् अपि दक्षिणां प्रतिगृह्य दक्षत एव । अथा ऽन्यम् अविद्वांसं सा प्र ह व्लीनाति नाशयत्येव न तु वर्धयति । व्ली विशरणे ॥